(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.230. अध्यायः 230
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रतिस्कन्दचरित्रकीर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-230-0x(2558)(24954)
श्रिया जुष्टं महासेनं देवसेनापतीकृतम्।
सप्तर्षिपत्नयः षड् देव्यस्तत्सकाशमथागमन् ॥ 3-230-1(24955)
ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः।
द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥ 3-230-2(24956)
वयं पुत्र परित्यक्तां भर्तृभिर्देवसंमितैः।
अकारणाद्रुषा तैस्तु पुण्यस्थानात्परिच्युताः ॥ 3-230-3(24957)
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम्।
तत्सत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥ 3-230-4(24958)
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥ 3-230-5(24959)
स्कन्द उवाच। 3-230-6x(2559)
मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः।
यद्वापीच्छत तत्सर्वं संभविष्यति वस्तथा ॥ 3-230-6(24960)
मार्कण्डेय उवाच। 3-230-7x(2560)
विवक्षन्तं ततः शक्रं किं कार्यमिति सोऽब्रवीत्।
उक्तः स्कन्देन ब्रूहिति सोऽब्रवीद्वासवस्ततः ॥ 3-230-7(24961)
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा।
इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥ 3-230-8(24962)
तत्र मूढोस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम्।
कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥ 3-230-9(24963)
धनिष्ठादिस्तदा कालो ब्रह्मणा परिकल्पितः।
रोहिणो ह्यभवत्पूर्वमेवं सङ्ख्या समाभवत् ॥ 3-230-10(24964)
एवमुक्ते तु शक्रेण त्रिविदं कृत्तिका गताः।
नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥ 3-230-11(24965)
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः।
इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥ 3-230-12(24966)
स्कन्द उवाच। 3-230-13x(2561)
एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम्।
स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥ 3-230-13(24967)
मार्कण्डेय उवाच। 3-230-14x(2562)
अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत्।
वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः।
इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥ 3-230-14(24968)
`तासां तु वचनं श्रुत्वास्कन्दो वचनमब्रवीत्'।
मातरो हि भवत्यो मे भवतीनामहं सुतः।
उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥ 3-230-15(24969)
मातर ऊचुः। 3-230-16x(2563)
यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः।
अस्माकं तु भवेत्स्थानं तासां चैव न तद्भवेत् ॥ 3-230-16(24970)
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ।
प्रजाऽस्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥ 3-230-17(24971)
स्कन्द उवाच। 3-230-18x(2564)
वृत्ताः प्रजा न ताः प्रक्या भवतीभिर्निषेवितुम्।
अन्प्रां वः कां प्रयच्छामि प्रजां यां मनसेच्छथा ॥ 3-230-18(24972)
मातर ऊचुः। 3-230-19x(2565)
इच्चाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः।
त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥ 3-230-19(24973)
स्कन्द उवाच। 3-230-20x(2566)
प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम्।
परिरक्षत भद्रं वः प्रजा साधुनमस्कृताः ॥ 3-230-20(24974)
मातर ऊचुः। 3-230-21x(2567)
परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि।
त्वया नो रोचते स्कन्द सहवासश्चिरंप्रभो ॥ 3-230-21(24975)
स्कन्द उवाच। 3-230-22x(2568)
यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः।
प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥ 3-230-22(24976)
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम्।
परमं तेन सहिताः सुखं वत्स्यथ पूजिताः ॥ 3-230-23(24977)
मार्कण्डेय उवाच। 3-230-23x(2569)
ततः शरीरात्स्कन्दस्य परुषः पावकप्रभः।
भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥ 3-230-24(24978)
अपतत्सहसा भूमौ विसंज्ञोऽथ क्षुधार्दितः।
स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ॥ 3-230-25(24979)
स्कन्दापस्मार इत्याहुर्गृहं तं द्विजसत्तमाः।
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ॥ 3-230-26(24980)
मातॄणां राक्षसंप्राहुस्तं विद्यात्पूतनाग्रहम्।
कष्टा दारुणरूपेण घोररूपा निशाचरी ॥ 3-230-27(24981)
पशाची रदारुणाकारा कथ्यते शीतपूतना।
गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥ 3-230-28(24982)
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः।
सोऽपि बालान्महागोरो बाधते वै महाग्रहः ॥ 3-230-29(24983)
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम्।
अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा ॥ 3-230-30(24984)
कुमाराश्च कुमार्यश् ये प्रोक्ताः स्कन्दसंभवाः।
तेऽपि गर्भभुजः सर्वे कौरव्यसुमहाग्रहाः ॥ 3-230-31(24985)
तासामेव तु पत्नीनां पतयस्ते प्रकीर्तिताः।
आजायमानान्गृह्णन्ति बालकान्रौद्रकर्मणः ॥ 3-230-32(24986)
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप।
शकुनिस्तामथारुह्यसह भुङ्क्ते शिशून्भुवि ॥ 3-230-33(24987)
सरमा नाम या माता शुनां देवी जनाधिप।
साऽपिगर्भान्समादत्ते मानुषीणां सदैव हि ॥ 3-230-34(24988)
पादपानां च या माता करञ्जनिलया हि सा।
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ॥ 3-230-35(24989)
करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः।
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ॥ 3-230-36(24990)
द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे।
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ ॥ 3-230-37(24991)
भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते।
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ॥ 3-230-38(24992)
ततो विलीनगर्भा सा मानुषी भुवि दृश्यते।
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ॥ 3-230-39(24993)
उपविष्टं ततो गर्भं कथयनति मनीषिणः।
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ॥ 3-230-40(24994)
लोहितायनिरित्येवं कदम्बे सा हि पूज्यते।
पुरुषे तु यथा रुद्रस्तथाऽऽर्या प्रमदास्वपि ॥ 3-230-41(24995)
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते।
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ॥ 3-230-42(24996)
यावत्षोडश वर्षाणि शिशूनां ह्यशिवास्ततः।
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैवये ग्रहाः ॥ 3-230-43(24997)
सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः।
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम्।
बलिकार्गेपहाराश् स्कन्दस्येज्या विशेषतः ॥ 3-230-44(24998)
एवमभ्यर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम्।
आयुर्दीर्घं च राजेनद्रसम्यक्पूजानमस्कृताः ॥ 3-230-45(24999)
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम्।
तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ 3-230-46(25000)
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोपि वा।
उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥ 3-230-47(25001)
आसीनश्च शयानश्च यः पश्यति नरः पितॄन्।
उन्माद्यतिस तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥ 3-230-48(25002)
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम्।
उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥ 3-230-49(25003)
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान्।
उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥ 3-230-50(25004)
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं भुवि।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥ 3-230-51(25005)
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति।
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ॥ 3-230-52(25006)
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये।
उनमाद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥ 3-230-53(25007)
यस् दोषैः प्रकुपितं चित्तं मुह्यति देहिनः।
उनमाद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥ 3-230-54(25008)
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात्।
उन्माद्यति स तु क्षिप्रं सान्त्वं तस्य तु साधनम् ॥ 3-230-55(25009)
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः।
अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥ 3-230-56(25010)
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम्।
अतः परं देहिनां तु ग्रहतुल्या भवेञ्जरा ॥ 3-230-57(25011)
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्।
आस्तिकं श्रद्दधानं च वर्जयन्ति तदा ग्रहाः ॥ 3-230-58(25012)
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः।
न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥ 3-230-59(25013)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रिंसदधिकद्विशततमोऽध्यायः ॥ 230 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-230-4 असत्यमेतत्संस्कृत्य इति ध. पाठः। अपत्यमेतत्संस्मृत्य इति ट. थ. पाठः ॥ 3-230-7 विवक्षन्तमभिजिन्नक्षत्रस् पतनान्नक्षत्रसंख्या कथं समा भवेदिति प्रष्टुमिच्छन्तम् ॥ 3-230-8 कन्यसी कनिष्ठा। वनं गता अधिकारं त्यक्तेति शेषः ॥ 3-230-10 यस्य नक्षत्रस्याद्यक्षणे चन्द्रसूर्यगुरूणां योगस्तद्युगादिनक्षत्रम्। तच्चपूर्वं रोहिण्यभूत्। तदाभिजित्पतनकाले त्वेकन्यूनैरहोरात्रैर्भगणस्य भोगात् कृतयुगादिनक्षत्रं धनिष्ठैवाभवदित्यर्थः। संख्या कलाकाष्ठादीनाम् ॥ 3-230-11 तथा च कृत्तिकाभिरेव नक्षत्रसंख्यापूर्ति कुर्विति शक्राशयं ज्ञात्वा तास्त्रिदिवं गताः। नक्षत्रं सप्तशीर्षाभं इति झ. पाठः ॥ 3-230-12 ऋषिपत्नीनामिव गरुत्मत्या अपिरूपं स्वाहया धृतमिति त्सुतत्वं बोध्यम् ॥ 3-230-13 स्नुषया देवसेनया ॥ 3-230-14 मातृगणो विनतादिसमूहः ॥ 3-230-16 ताः प्रसिद्धाः मातरो ब्राह्मीमाहेश्वरीप्रभृतयः ॥ 3-230-17 त्वत्कृते त्वदर्थं ताभिर्ब्राह्मयादिभिरस्मद्भर्तॄन् मिथ्याभिशापदोषेण कोपयन्तीभिः प्रजा हृताः सङ्गाभावादित्यर्थः। संधिरार्षः। नोऽस्मभ्यं प्रयच्छ भर्तॄणामनुकूलनेनेत्यर्थः ॥ 3-230-18 वृत्तामया दत्ता अपि। मया प्रार्थिता अपि मुनयो युष्मान् नाङ्गीकरिष्यन्तीति भावः ॥ 3-230-19 मातॄणां ब्राह्मयादीनाम्। तासां प्रजानामीश्वराः पित्रादयः ॥ 3-230-20 प्रजाः अस्मदाद्याः। नमस्कृता यूयं मयेति शेषः ॥ 3-230-32 अज्ञायमाना गृहन्ति इति ध. पाठः ॥ 3-230-38 मुजाता हरिणी या तु सा गर्भं पिबति प्रभो इति ट. थ. ध.पाठः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.